|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.16. अध्यायः 016
Mahabharata - Vana Parva - Chapter Topics
कृष्णेन युधिष्ठिरंप्रति साल्वयादवयुद्धवर्णनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
3-16-0(16305)
वासुदेव उवाच। 3-16-0x(1830)
तां तूपयातो राजेन्द्र साल्वः सौभपतिस्तदा।
प्रभूतनरनागेन बलेनोपविवेश ह ॥ 3-16-1(16306)
समे निविष्टां सा सेना प्रभूतसलिलाशये।
चतुरङ्गबलोपेता साल्वराजाभिपालिता ॥ 3-16-2(16307)
वर्जयित्वा श्मशानानि देवतायतनानि च।
वल्मीकांश्चैव चैत्यांश्च संनिविष्टमभूद्बलम् ॥ 3-16-3(16308)
अनीकानां विभागेन पन्थानः सुकृतास्तथा।
प्रथमा नवमाश्चैव साल्वस्य शिबिरे नृप ॥ 3-16-4(16309)
सर्वायुधसमोपेतं सर्वशस्त्रविशारदम्।
रथनागाश्वकलिलं पदातिजनसंकुलम् ॥ 3-16-5(16310)
तुष्टपुष्टबलोपेतं वीरलक्षणलक्षितम्।
विचित्रध्वजसन्नाहं विचित्ररथकार्मुकम् ॥ 3-16-6(16311)
संनिवेश्य च कौरव्य द्वारकायां नरर्षभ।
अभिसारयामास तदा वेगैन पतगेन्द्रवत् ॥ 3-16-7(16312)
तदापतन्तं संदृश्य बलं साल्वपतेस्तदा।
निर्याय योधयामासुः कुमारा वृष्णिनन्दनाः ॥ 3-16-8(16313)
असहन्तोऽभियानं तत्साल्वराजस्य कौरव।
चारुदेष्णश्च साम्बश्च प्रद्युम्नश्च रमहारथः ॥ 3-16-9(16314)
ते रथैर्दंशिताः सर्वेविचित्राभरणध्वजाः।
संसक्ताः साल्वराजस्य बहुभिर्योधपुङ्गवैः ॥ 3-16-10(16315)
गृहीत्वा कार्मुकं साम्बः साल्वस्य सचिवं रणे।
यीधयामास संहृष्टः क्षेमधूर्तिं चमूपतिम् ॥ 3-16-11(16316)
तस्य बाणमयं वर्षं जाम्बवत्याः सुतो महत्।
मुमोच भरतश्रेष्ठ यथावर्षं सहस्रदृक् ॥ 3-16-12(16317)
तद्बाणवर्षं तुमुलं विषेहे स चमूपतिः।
क्षेमधूर्तिर्महाराज हिमवानिव निश्चलः ॥ 3-16-13(16318)
ततः साम्बाय राजेन्द्र क्षेमधूर्तिरपि स्वयम्।
मुमोच मायाविहितं शरजालं महत्तरम् ॥ 3-16-14(16319)
ततो मायामयं जालं माययैव विदार्यसः।
साम्बः शरसहस्रेण रथमस्याभ्यवर्षत ॥ 3-16-15(16320)
ततः स विद्धः साम्बेन क्षेमधूर्तिश्चमूपतिः।
अपायाज्जवनैरश्वैः साम्बबाणप्रपीडितः ॥ 3-16-16(16321)
तस्मिन्विप्रद्रुते शरे साल्वस्याथ चमूपतौ।
वेगवान्नाम दैतेयः सुतं मेऽभ्यद्रवद्बली ॥ 3-16-17(16322)
अभिपन्नस्तु राजेन्द्र साम्बो वृष्णिकुलोद्वहः।
वेगं वेगवतो राजंस्तस्थौ वीरो विधारयन् ॥ 3-16-18(16323)
स वेगवति कौन्तेय साम्बो वेगवतीं गदाम्।
चिक्षेप तरसा वीरो व्याविद्ध्यन्सत्यविक्रमः ॥ 3-16-19(16324)
तया त्वभिहतो राजन्वेगवान्न्यपतद्भुवि।
वातरुग्णं इव क्षुण्णो जीर्णमूलोवनस्पतिः ॥ 3-16-20(16325)
तस्मिन्निपतिते वीरे गदारुग्णे महासुरे।
प्रविश्य महतीं सेनां योधयामास मे सुतः ॥ 3-16-21(16326)
चारुदेष्णेन संसक्तो विविन्ध्यो नाम दानवः।
महारथः समाज्ञातो महाराज महाधनुः ॥ 3-16-22(16327)
ततः सुतुमुलं युद्धं चारुदेष्णविविन्ध्ययोः।
वृत्रवासवयो राजन्यथापूर्वं तथाऽभवत् ॥ 3-16-23(16328)
अन्योन्यस्याभिसंक्रुद्धावन्योन्यं जघ्नतुः शरैः।
विनदन्तौ महाराज सिंहाविव महाबलौ ॥ 3-16-24(16329)
रौक्मिणेयस्ततो बाणमग्न्यर्कोपमवर्चसम्।
अभिमन्त्र्य महास्त्रेण संदधे शत्रुनाशनम् ॥ 3-16-25(16330)
स विविन्ध्याय सक्रोधः समाहूय महारथः।
चिक्षेप मे सुतो राजन्स गतासुरथापतत् ॥ 3-16-26(16331)
विविन्ध्यं निहृतं दृष्ट्वा तां च विक्षोभितां चमूम्।
कामगेन स सौभेन साल्वः पुनरुपागमत् ॥ 3-16-27(16332)
ततो व्याकुलितं सर्वं द्वारकावासि तद्बलम्।
दृष्ट्वा साल्वं महाबाहो सौभस्थं पृथिवीगतम् ॥ 3-16-28(16333)
ततो निर्याय कौरव्य अवस्थाप्य च तद्बलम्।
आनर्तानां महाराज प्रद्युम्नो वाक्यमब्रवीत् ॥ 3-16-29(16334)
सर्वे भवन्तस्तिष्ठन्तु सर्वे पश्यन्तु मां युधि।
निवारयन्तं संग्रामे बलात्सौभं सराजकम् ॥ 3-16-30(16335)
अयं सौभपतेः सेनामायसैर्भुजगैरिव।
धनुर्भुजविनिर्मुक्तैर्नाशयम्यद्य यादवाः ॥ 3-16-31(16336)
आश्वसध्वं न भीः कार्या सौभराडद्य नश्यति।
मयाऽभिपन्नो दुष्टात्मा ससौभो विनशिष्यति ॥ 3-16-32(16337)
एवं ब्रुवति संहृष्टे प्रद्युम्ने पाण्डुनन्दन।
धिष्टितं तद्बलं द्वारि युयुधे च यथासुखम् ॥ 3-16-33(16338)
इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि षोडशोऽध्यायः ॥ 16 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-16-2 समे देशे ॥ 3-16-4 प्रवणाय च नैवासन्निति झ. पाठः ॥ 3-16-5 कलिलं संकटम्। पदातिध्वजसंकुलमिति झ. पाठः ॥ 3-16-7 अभिसारयामास नगरसमीपं गमयामास। सैन्यं पतगेन्द्रवत्सौभं चोपरितः अभिसारयामास ॥ 3-16-8 आपतन्समापतत् ॥ 3-16-16 क्षेमधूर्तिः स्मयन्निवेति क. ट. पाठः। अपायात्पलायितः ॥ 3-16-18 अभिपन्नः आभिमुख्येनासादितः ॥ 3-16-19 व्याविध्य सत्यविक्रमः इति झ. पाठः। तत्र व्याविध्य भ्रामयित्वेत्यर्थः ॥ 3-16-20 रुग्णः क्षुण्णश्च गजादिपदाघातैः ॥ 3-16-27 सौभेन खेचरेण पुरेण ॥ 3-16-29 निर्याय निर्गत्य। अवस्थाप्य आश्वास्य। आनर्तानां द्वारकावासिनाम् ॥ 3-16-31 धनुर्भुजविनिर्मुक्तैः धनुषः भुजेन कौटिल्येन अत्याकर्षणजेन निर्मुक्तैः. भुज कौटिल्ये तुदादिः ॥ 3-16-33 धिष्ठितं अधिष्ठितम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|